The Perl Toolchain Summit needs more sponsors. If your company depends on Perl, please support this very important event.
अनुच्छेद: 1
सर्वे मानवा: स्वतन्त्रा: समुत्पन्ना: वर्तन्ते अपि च, गौरवदृशा अधिकारदृशा च समाना: एव 
वर्तन्ते। एते सर्वे चेतना-तर्क-शक्तिभ्यां सुसम्पन्ना: सन्ति। अपि च, सर्वेऽपि बन्धुत्व-भावनया 
परस्परं व्यवहरन्तु।

अनुच्छेद: 2
अस्यां अभिघोषणायां निर्दिष्टा: सर्वेऽपि अधिकारा: सर्वाण्यपि च स्वातन्त्र्याणि, विनैव जाति-
वर्ण-लिंग-भाषा-धर्म-राजनीतिक-तदितर-मन्तव्यादि-भेदम्, राष्ट्रीयं सामाजिकाधारं सम्पज्जन्म-
तदितर स्तरञ्च अविगणय्य, अधिगन्तुं सर्वोऽपि जन: प्रभवति।
एतदतिरिक्तम्, कस्याश्चिदपि प्रभुसत्ताया: नियमनान्तर्गतम्, स्वाधीनस्य आत्मप्रशासनेतर-तन्त्रस्य, 
न्यासितन्त्रस्य वा वास्तव्यस्य प्रदेशस्य देशस्य वा राजनीतिक-सीमा-निबन्धनान्ताराष्ट्रिक-
स्तराधारेण न कोऽपि भेदो विधास्यते।